|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.101. अध्यायः 101
Mahabharata - Udyoga Parva - Chapter Topics
नारदेन मातलिं सुपर्णलोकमुपनीय सुपर्णवंश्यानां पक्षिणां नामनिर्देशपूर्वकं गुणानुकीर्तनम् ॥ 1 ॥ तत्र वरानभिरोचने देशान्तरनयनवचनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
नारद उवाच। 5-101-0x(3688)(35382)
अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम् ।
विक्रमे गमने भारे नैषामस्ति परिश्रमः ॥ 5-101-1(35383)
वैनतेयसुतैः सूत पङ्भिस्ततमिदं कुलम् ।
सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा ॥ 5-101-2(35384)
सुरुचा पक्षिराजेन सुबलेन च मातले।
वर्धितानि प्रसृत्या वै विनाताकुलकर्तृभिः ॥ 5-101-3(35385)
पक्षिराजाभिजात्यानां सहस्राणि शतानि च।
कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः ॥ 5-101-4(35386)
सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः ।
सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत ॥ 5-101-5(35387)
कर्मणा क्षत्रियाश्चैते निर्घृणा भोगिभोजिनः ।
ज्ञातिसङ्क्षयकर्तृत्वाद्ब्राह्मण्यं न लभन्ति वैः ॥ 5-101-6(35388)
नामानि चैषां वक्ष्यामि यथाप्राधान्यतः श्रृणु ।
मातले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम् ॥ 5-101-7(35389)
दैवतं विष्णुरेतेषां विष्णुरेव परायणम् ।
हृदि चैषां सदा विष्णुर्विष्णुरेव सदा गतिः ॥ 5-101-8(35390)
सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः ।
अनिलश्चानलश्चैव विशालाक्षोऽथ कुण्डली ॥ 5-101-9(35391)
पङ्कजिद्वज्रविष्कम्भो वैनतेयोऽथ वामनः ।
वातवेगो दिशाचक्षुर्निमेषोऽनिमिषस्तथा ॥ 5-101-10(35392)
त्रिरावः सप्तरावश्च वाल्मीकिर्दीपकस्तथा ।
दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेतनः ॥ 5-101-11(35393)
सुमुखश्चित्रकेतुश्च चित्रबर्हस्तथाऽनघः।
मेषहृत्कुमुदो दक्षः सर्पान्तः सोमभोजनः ॥ 5-101-12(35394)
गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः ।
विष्णुधर्मा कुमारश्च परिबर्हो हरिस्तथा ॥ 5-101-13(35395)
सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च।
मालयो मातरिश्वा च निशाकरदिवाकरौ ॥ 5-101-14(35396)
एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः ।
प्राधान्यतस्ते यशसा कीर्तिताः प्राणिनश्चये ॥ 5-101-15(35397)
यद्यत्र न रुचिः काचिदेहि गच्छाव मातले ।
तं नयिष्यामि देशं त्वां वरं यत्रोपलप्स्यसे ॥ ॥ 5-101-16(35398)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकाधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-101-3 प्रसृत्या प्रकृष्टगत्या जवेन वृद्धिमन्तीत्यर्थः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|